सुभाषितानि

चतुर्थः पाठः

सुभाषितानि

1. यथा खनन् खनित्रेण नरोवार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।।

2. आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्याः मूर्तिस्तु भ्राता स्वोमूर्तिरात्मनः ।।

Q9F824

3. आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका। धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ।।

4. अन्नदाता भयत्राता विद्यादाता तथैव च। जनिता चोपनेता च पञ्चैते पितरः स्मृताः ।।

5. सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्तिः पत्नी क्षमापुत्रः षडेते मम बान्धवाः ।।

6. रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।।

7. नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः। शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन ।।

8. को नायाति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गेऽपि मुख लेपेन करोति मधुरध्वनिः ।।

9. पयसा कमलं कमलेन पयः, पयसा कमलेन विभाति सरः। मणिना वलयं वलयेन मणिः, मणिना वलयेन विभाति करः। शशिना च निशा निशया च शशी, शशिना निशया च विभावि कविना च विभुः विभुना च कविः, कविना विभुना च विभाति स

10. नरके गमनं श्रेष्ठं दावाग्नौ दहनं वरम् । वरं प्रपतनं चाब्धौ न वरं परशासनम् ।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

अंधेर नगरी चौपट राजा टके सेर भाजी टके शेर खाजा।।

संघगीत 14 भारत हमारी मा है

पौराणिक विज्ञान